श्रीनर्मदाष्टकम् -स्वर सौ प्रतिभाताई पुराणिक

Share:

रामकुटी (Ramkuti)

Religion & Spirituality


नर्मदाष्टकम् 


सबिन्दुसिन्धुसुस्खलत्तरङ्गभङ्गरञ्जितं

   द्विषत्सु पापजातजातकारिवारिसंयुतम् ।

कृतान्तदूतकालभूतभीतिहारिवर्मदे

   त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ १॥


त्वदम्बुलीनदीनमीनदिव्यसम्प्रदायकं

   कलौ मलौघभारहारिसर्वतीर्थनायकम् ।

सुमच्छकच्छनक्रचक्रवाकचक्रशर्मदे

   त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ २॥


महागभीरनीरपूरपापधूतभूतलं

   ध्वनत्समस्तपातकारिदारितापदाचलम् ।

जगल्लये महाभये मृकण्डुसूनुहर्म्यदे

   त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ३ ॥


गतं तदैव मे भयं त्वदम्बु वीक्षितं यदा

   मृकण्डुसूनुशौनकासुरारिसेवितं सदा ।

पुनर्भवाब्धिजन्मजं भवाब्धिदुःखवर्मदे

   त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ४॥


अलक्ष्यलक्षकिन्नरामरासुरादिपूजितं

   सुलक्षनीरतीरधीरपक्षिलक्षकूजितम् ।

वसिष्ठशिष्टपिप्पलादिकर्दमादिशर्मदे

   त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ५॥


सनत्कुमारनाचिकेतकश्यपात्रिषट्पदैः

   धृतं स्वकीयमानसेषु नारदादिषट्पदैः ।

रवीन्दुरन्तिदेवदेवराजकर्मशर्मदे

   त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ६॥


अलक्षलक्षलक्षपापलक्षसारसायुधं

   ततस्तु जीवजन्तुतन्तुभुक्तिमुक्तिदायकम् ।

विरिञ्चिविष्णुशंकरस्वकीयधामवर्मदे

   त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ७॥


अहो धृतं स्वनं श्रुतं महेशकेशजातटे

   किरातसूतबाडबेषु पण्डिते शठे नटे ।

दुरन्तपापतापहारि सर्वजन्तुशर्मदे

   त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥ ८॥


इदं तु नर्मदाष्टकं त्रिकालमेव ये सदा

   पठन्ति ते निरन्तरं न यान्ति दुर्गतिं कदा ।

सुलभ्यदेहदुर्लभं महेशधामगौरवं

   पुनर्भवा नरा न वै विलोकयन्ति रौरवम् ॥ ९॥


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ

     नर्मदाष्टकं सम्पूर्णम् ॥